|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.143. अध्यायः 143
Mahabharata - Adi Parva - Chapter Topics
अर्जुनेन लक्ष्यभूतभासच्छेदः॥ 1 ॥ स्नानार्थं गङ्गामवतीर्णस्य द्रोणस्य ग्राहेण जङ्घायां ग्रहणम्॥ 2 ॥ अर्जुनेन ग्राहहननम्॥ 3 ॥ अर्जुनस्य ब्रह्मशिरोस्त्रलाभः॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-143-0x(854)(6511)
ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत।
त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं विलोक्यताम्॥ 1-143-1(6512)
मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः।
वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम्॥ 1-143-2(6513)
एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः।
तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः॥ 1-143-3(6514)
मुहूर्तादिव तं द्रोणस्तथैव समभाषत।
पश्यस्येनं स्थितं भासं द्रुमं मामपि चार्जुन॥ 1-143-4(6515)
पश्याम्येकं भासमिति द्रोणं पार्थोऽभ्यभाषत।
न तु वृक्षं भवन्तं वा पश्यामीति च भारत॥ 1-143-5(6516)
ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः।
प्रत्यभाषत दुर्धर्षः पाण्डवानां महारथम्॥ 1-143-6(6517)
भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः।
शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत्॥ 1-143-7(6518)
अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः।
मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन्॥ 1-143-8(6519)
ततस्तस्य गस्थस्य क्षुरेण निशितेन च।
शिर उत्कृत्य तरसा पातयामास पाण्डवः॥ 1-143-9(6520)
तस्मिन्कर्मणि संसिद्धे पर्यष्वजत पाण्डवम्।
मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम्॥ 1-143-10(6521)
कस्य चित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः।
जगाम गङ्गामभितो मज्जितुं भरतर्षभ॥ 1-143-11(6522)
अवगाढमथो द्रोणं सलिले सलिलेचरः।
ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः॥ 1-143-12(6523)
स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत्।
ग्राहं हत्वा तु मोक्ष्यध्वं मामिति त्वरयन्निव॥ 1-143-13(6524)
तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः।
अवार्यैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत्॥ 1-143-14(6525)
इतरे त्वथ संमूढास्तत्रपत्र प्रपेदिरे।
तं तु दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम्॥ 1-143-15(6526)
विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा।
स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः॥ 1-143-16(6527)
ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः।
`सर्वक्रियाभ्यनुज्ञानात्तथा शिष्यान्समानयत्॥ 1-143-17(6528)
दुर्योधनं चित्रसेनं दुःशासनविविंशती।
अर्जुनं च समानीय ह्यश्वत्थामानमेव च॥ 1-143-18(6529)
शिशुकं मृण्मयं कृत्वा द्रोणो गङ्गाजले ततः।
शिष्याणां पश्यतां चैव क्षिपति स्म महाभुजः॥ 1-143-19(6530)
चक्षुषी वाससा चैव बद्ध्वा प्रादाच्छरासनम्।
शिशुकं विद्ध्यतेमं वै जलस्थं बद्धचक्षुषः॥ 1-143-20(6531)
तत्क्षणेनैव बीभत्सुरावापैर्दशभिर्वशी।
पञ्चकैरनुविव्याध मग्नं शिशुकमम्भसि॥ 1-143-21(6532)
ताः स दृष्ट्वा क्रियाः सर्वा द्रोणोऽमन्यत पाण्डवम्।
विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा।'
तथाब्रवीन्महात्मानं भारद्वाजो महारथम्॥ 1-143-22(6533)
गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम्।
अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम्॥ 1-143-23(6534)
न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथंचन।
जगद्विनिर्दहेदेतदल्पतेजसि पातितम्॥ 1-143-24(6535)
असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते।
तद्धारयेथाः प्रयतः शृणु चेदं वचो मम॥ 1-143-25(6536)
बाधेतामानुषः शत्रुर्यदि त्वां वीर कश्चन।
तद्वधाय प्रयुञ्जीथास्तदस्त्रमिदमाहवे॥ 1-143-26(6537)
तथेति संप्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः।
जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः।
भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः॥ ॥ 1-143-27(6538)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रिचत्वारिंशदधिकशततमोऽध्यायः॥ 143 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-143-12 अवगाढं जलावगाहिनम्॥ 1-143-13 मोक्ष्यध्वं मोचयध्वम्॥ त्रिचत्वारिंशदधिकशततमोऽध्यायः॥ 143 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|